४७ तुम्बी

सर्वास्तु1म्ब्यः समकटुरसास्तुम्बिवल्लीप्रसूतास्ताः सम्बद्धा अपि कतिपया दुस्तरं तारयन्ति।
2शब्दायन्ते सरसमपराः शुष्ककाष्ठे निषण्णास्तन्मध्येऽन्या ज्वलितहृदयाः 3शोणितं सम्पिबन्ति॥ 200 ॥

एके तुम्बा व्रतिकरगताः पात्रतामानयन्ति गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः।
एके तावद्ग्रथितसगुणा दुस्तरं तारयन्ति तेषां मध्ये ज्वलितहृदया रक्तमेके पिबन्ति॥ 201 ॥


  1. तुम्बीफलानि. ↩︎

  2. शब्दं कुर्वन्ति. ↩︎

  3. रक्तम्. ↩︎