। किं वीरुधो1 भुवि न सन्ति सहस्रशोऽन्या यासां दलानि न परोपकृतिं भजन्ते।
एकैव वल्लिषु विराजति नागवल्ली या नागरीवदनचन्द्रमलङ्करोति॥ 198 ॥
वल्लीनां कति न स्फुरन्ति परितः पत्त्राणि किं तैरिह स्निग्धैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम्। तानेव स्तुमहे महाजनमुखश्रीकारिजन्मव्रतान्यान्सूते नवनागरीप्रियतमांस्ताम्बूलवल्लीदलान्॥ 199 ॥
-
लताः. ↩︎