४५ कलमाः

कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकह्लाराः।
पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम्॥ 196 ॥
अस्मानवेहि 1कलमानलमा2हतानां येषां प्रचण्डमुसलैर3वदाततैव।
स्नेहं4 विमुच्य सहसा 5खलतां प्रयान्ति ये स्वल्पपीडनवशान्न वयं तिलास्ते॥ 197 ॥


  1. शालिविशेषान्. ↩︎

  2. कण्डितानाम्. ↩︎

  3. शुभ्रत्वम्. ↩︎

  4. तैलम्; [पक्षे] प्रीतिम्. ↩︎

  5. दुर्जनत्वम्; [पक्षे] खलरूपत्वम्. ↩︎