४४ तृणानि

रूढस्य सिन्धुतटमनु तस्य तृणस्यापि जन्म कल्याणम्।
यत्सलिलमज्जदाकुलजनस्य हस्तावलम्बनं भवति॥ 194 ॥
उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्शिभिर्धन्योऽसौ नितरामुलूपविटपी नद्यास्तटेऽवस्थितः।
एवं यः कृतबुद्धिरुज्झितजलव्यालोलवीचीवशान्मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि वा॥ 195 ॥