1माधुर्यसाराधरितामृतस्य तत्कण्टकित्वं पनसस्य सह्यम्।
2उन्मादिनो मातुलपुत्रकस्य कथं सहामो बत कण्टकित्वम्॥ 189 ॥
धत्तूर धूर्त तरुणेन्दुनिवासयोग्ये स्थाने 3पिशाचपतिना विनिवेशितोऽसि।
किं कैरवाणि विकसन्ति तमः प्रयाति 4चन्द्रोपलो द्रवति वार्धिरुपैति वृद्धिम्॥ 190 ॥
धत्तूरकण्टक फलप्रतिरोधबुद्ध्या वैरं वृथैव कुरुषे पनसेन सार्धम्।
सन्तो हसन्ति न भजन्ति च चेतसा त्वां भ्रान्ता भवन्ति पुरुषास्तव सेवनेन॥ 191 ॥
महेशस्त्वां धत्ते शिरसि 5रसराजस्य जयिनी विशुद्धिस्त्वत्स6ङ्गात्कनकमयमेतत्त्रिभुवनम्।
तनोति त्वत्सेवां ननु कनकवृक्ष त्वदपरः परः को नु स्यात्तद्यदि न सुलभीभावमभजः॥ 192 ॥