३९ कार्पासः

नीरसान्यपि1 रोचन्ते कार्पासस्य फलानि मे।
येषां 2गुणमयं जन्म परेषां गुह्यगुप्तये॥ 184 ॥

श्लाघ्यं कार्पासफलं यस्य गुणैरन्ध्रवन्ति पिहितानि।
मुक्ताफलानि तरुणीकुचकलशतटेषु विलसन्ति॥ 185 ॥
निष्पेषोऽस्थिचयस्य दुःसहतरः प्राप्तस्तुलारोहणं ग्राम्यस्त्रीनखचुम्बनव्यतिकरस्तन्त्रीप्रहारव्यथा।
3मातङ्गोक्षितमण्डवारिकणिकापानं च कूर्चाहतिः कार्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम्॥ 186 ॥


  1. शुष्काणि. ↩︎

  2. सूत्रमयम्. ↩︎

  3. मातङ्गेनान्त्यजेनोक्षितं सिक्तं यन्मण्डवारि सिक्थद्रवोदकं तत्कणिकायाः पानम्. अतीवाशुचीति भावः. ↩︎