अयि दुष्कृतकेन केन वत्से हलिकद्वारि लवङ्गि पुष्पितासि।
स्तबकास्तव पांसुभिः परीताः परितः प्राङ्गणसीम्नि यल्लुठन्ति॥ 181 ॥
लूनं मत्तमतङ्गजैः कियदपि च्छिन्नं तुषारार्दितैः शिष्टं ग्रीष्मजतीक्ष्णभानुकिरणैर्भस्मीकृतं काननम्।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते॥ 182 ॥
सौरभ्येण समावृणोषि ककुभः पुष्णासि पुष्पं धयाल्लूतातन्तु वृथा तथापि कियतीस्त्वं यापयेर्यामिनीः।
अस्मिन्दासपुरे परस्तत इतो विन्यस्तविस्रामिषे मालाकारमृते लवङ्गि ललितान्कस्ते गुणाञ्ज्ञास्यति॥ 183 ॥