३७ इक्षुः

कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किञ्चासि पञ्चशरकार्मुकमद्वितीयम्।
इक्षो तवास्ति सकलं परमेकमूनं यत्सेवितो भजसि नीरसतां क्रमेण॥ 178 ॥
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः।1
न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः॥ 179 ॥

2मुखे यद्वैरस्यं वपुरपि पुनर्ग्रन्थि निचितं न सन्तप्तः कोऽपि क्षणमपि भजेन्मूलमभितः।3
फलं चैवाप्राप्यं वितथ4रसलिप्सस्य भवतस्तदिक्षोर्नायुक्तं विहितमितरैर्यत्तु दलनम्॥ 180 ॥


  1. गुडशर्करादिः. ↩︎

  2. अग्रे. ↩︎

  3. पर्वव्याप्तम्. ↩︎

  4. वितथा दलनातिरिक्तसाधनाभावेन विफला रसस्य लिप्सा लब्धुमिच्छा यस्मिंस्तस्य. ↩︎