३५ शालिः

शाखासन्ततिसन्निरुद्धनभसो भूयांस एवावनौ विद्यन्ते तरवः फलैरविकलैरार्तिच्छिदः प्राणिनाम्।
किन्तु द्वित्रदलैरलङ्कृततनोः शालेस्तुमस्तुङ्गतां दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः॥ 176 ॥