३३ करीरः

फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान्।
इतरे तरवो मन्ये करीर तव किङ्कराः॥ 173 ॥
किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः।
येन वृद्धिं समासाद्य न कृतः पत्त्रसङ्ग्रहः॥ 174 ॥