धान्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ क्षुत्क्षीणेन जनेन हि प्रतिदिनं येषां फलं भुज्यते। किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्द्रुमैर्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते॥ 172 ॥