शाखोट शाल्मलिपलाशकरीरकाद्याः शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः।
युष्मभ्यमर्पयति पल्लवपुष्पलक्ष्मीं सौरभ्यसम्भवविधिस्तु विधेरधीनः॥ 170 ॥
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते।
वामेनात्र वटस्तमध्वगजनः 1सर्वात्मना सेवते न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे॥ 171 ॥
-
समित्पत्रच्छायादिभिः. ↩︎