किंशुक1 किं शुकमुखवत्कुसुमानि विकासयस्यनिशम्।
यस्यां जनोऽनुरागी सा गीरेतैः कदापि नोच्चार्या॥ 167 ॥
त्यज किंशुक पुष्पिताभिमानं निजशिरसि भ्रमरोपसेवनेन।
विकसन्नवमालिकावियोगात्कुरुते वह्निधिया त्वयि प्रवेशम्॥ 168 ॥
उपनदिपुलिने महापलाशः पवनसमुच्छलदेकपत्त्रपाणिः।
दवदहनविनष्टजीवितानां सलिलमिवैष ददाति पादपानाम्॥ 169 ॥
-
पलाशवृक्ष. ↩︎