२९ खदिरः

विना खदिरसारेण हारेण हरिणीदृशाम्।
नाधरे जायते रागो नानुरागः पयोधरे॥ 164 ॥
1चन्दने विषधरान्सहामहे वस्तु सुन्दरमगु प्तिमत्कुतः।2
रक्षितुं वद किमात्मसौष्ठवं सञ्चिताः खदिर कण्टकास्त्वया॥ 165 ॥

परं तदिह नास्ति यन्न खदिरैः खरैरावृतं न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः।
न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिदः समुज्झत वृथास्थितिं बत सहध्वमध्वश्रमम्॥ 166 ॥


  1. सर्पान्. ↩︎

  2. रक्षारहितम्. ↩︎