२८ बब्बुलः

पत्त्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शूकैः।
उपसर्पेण भवन्तं बब्बुल वद कस्य लोभेन॥ 160 ॥
गात्रं कण्टकसङ्कटं प्रविरलच्छाया न चायासहृन्निर्गन्धः 1कुसुमोत्करस्तव फलं न क्षुद्विनाशक्षमम्।
बब्बूलद्रुम मूलमेति न जनस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फलवतां गुप्त्यै 2वृतिर्जायसे॥ 161 ॥

आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पोद्गमश्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसन्तोषकृत्।
रे रे बब्बुल साधुसङ्गरहितस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे॥ 162 ॥
शाखाः कण्टककोटिभिः परिवृता वज्रं फलं कुत्सितं पत्त्रं क्षुद्रतरं न चास्ति गहना छायापि पान्थप्रिया।
अन्येषामपि शाखिनां फलभृतां रक्षार्थमानीयसे बर्ब्बूलद्रुम कैर्गुणैर्गुरुतरैर्वृक्षेषु सम्भाव्यसे॥ 163 ॥


  1. पुष्पप्रकरः. ↩︎

  2. प्राचीरम्. ↩︎