२७ निम्बः

निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते।1
यानि सञ्जातपाकानि काका निःशेषयन्त्यमी॥ 155 ॥

2यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा।
यश्चैनं गन्धमाल्याद्यैः सर्वलस्य कटुरेव स॥ 156 ॥

पश्यानुरूपमिन्दिन्दिरेण3 माकन्दशेखरो मुखरः।
अपि च पिचुमन्दमुकुले मौ4कुलिकुलामाकुलं मिलति॥ 157 ॥

चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितघटनासंविधाता विधाता।
यन्निम्बानां परिणतफलस्फी5तिरास्वादनीया यच्चैतस्याः 1कवलनकलाकोविदः काकलोकः॥ 158 ॥

यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः।
तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं स्थाने तस्य तु काकलोक6वसतिर्निम्बः समारोपितः॥ 159 ॥


  1. व्यर्थानि. ↩︎ ↩︎

  2. अत्र वृश्चति सिञ्चति अर्चति इत्यध्याहारेण वाक्यानि पूरणीयानि. ↩︎

  3. भ्रमरेण. ↩︎

  4. काककुलम्. ↩︎

  5. समृद्धिः. ↩︎

  6. निवासः. ↩︎