विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं शुकस्यासीद्बुद्धिः फलमपि भवेत्तादृशमिति।
चिरं तत्र स्थित्वा फलमपि च काले परिणतं विपाके तूलोऽन्तः सपदि मरुता सोऽप्यपहृतः॥ 151 ॥
दूरे मार्गान्निवससि पुनः कण्टकैरावृतोऽसि छायाशून्यः फलमपि च ते वानरैरप्यभक्ष्यम्।
निर्गन्धस्त्वं मधुपरहितः शाल्मले सारशून्यः सेवास्माकं भवति विफला तिष्ठ निःश्वस्य यामः॥ 152 ॥
हंसाः पद्मवनाशया मधुलिहः सौरभ्यलाभाशया पान्थाः स्वादुफलाशया 1बलिभुजो गृध्राश्च मांसाशया।
दूरादुत्तमपुष्परागनिकरैर्निःसारमिथ्योन्नते रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः॥ 153 ॥
कायः कण्टकभूषितो न च घनच्छायीकृताः पल्लवाः पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी।
किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जामहे तद्भोः केन गुणेन शाल्मलितरो जातोऽसि सीमद्रुमः॥ 154 ॥
-
काकाः. ↩︎