२५ मधूकः

तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे तज्जाड्यं शिशिरे यदेकशरणैः सोढं पुरा यैर्दलैः।
आयातोऽप्यधुना फलस्य समयः कोऽयं विना तैरिति स्मृत्वा तानि 1शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः॥ 149 ॥

मूलादेव यदस्य विस्तृतिभरश्छायाप्यनन्यादृशी ते यस्य प्रसवाः सुमञ्जुलरसैरानन्दयन्तः प्रजाः।
स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणैर्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम्॥ 150 ॥


  1. शोकेन. ↩︎