महातरुर्वा भवति समूलो वा विनश्यति।
नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः॥ 146 ॥
न्यग्रोधे फलशालिनि स्फुटतरं किञ्चित्फलं पच्यते बीजान्यङ्कुरगोचराणि कतिचित्सिध्यन्ति तस्मिन्नपि।
एकस्तेष्वपि कश्चिदङ्कुरवरः प्राप्नोति तामुन्नतिं यामासाद्य निदाघपीडिततनुर्ग्लानिच्छिदे धावति॥ 147 ॥
विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनाम1ग्रणीस्त्वं न्यग्रोध क्रोधमन्तः प्रकयसि न चेद्वच्मि किञ्चित्तदल्पम्।
जल्पोऽप्येष 2त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली पल्लीपृष्ठप्रतिष्ठा हसति हि फलने त्वत्फलानां किमन्यत्॥ 148 ॥