दौर्जन्यमात्मनि परं प्रथितं विधात्रा भूर्जद्रुमस्य विफलत्वसमर्पणेन।
किं चर्मभिर्निशितशस्त्रशतावकृत्तैराशां न पूरयति सोऽर्थिपरम्पराणाम्॥ 143 ॥
कुर्वन्तु नाम जनतोपकृतिं प्रसूनच्छायाफलैरविकलैः सुलभैर्द्रुमास्ते।
सोढास्तु कर्तनरुजः पररक्षणार्थमेकेन भूर्जतरुणा करुणापरेण॥ 144 ॥