अये ताल व्रीडां व्रज गुरुतया भाति न भवान्फले न च्छाया नो कठिनपरिवारो हि भवतः।
इयं धन्या धन्या सरलकदली सुन्दरदला परात्मानं मन्ये सुखयति फलेनामृतवता॥ 141 ॥
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादराद्दूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मूढात्मनः।
यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः॥ 142 ॥