उच्चैरेष तरुः फलं च विपुलं दृष्ट्वैव हृष्टः शुकः पक्वं शालिवनं विहाय जडधीस्तं नालिकेरं गतः। तत्रारुह्य बुभुक्षितेन मनसा यत्नः कृतो भेदने वाञ्छा तस्य न केवलं विगलिता चञ्चूर्गता चूर्णताम्॥ 140 ॥