। मयि जीवति बीजाढ्ये किमन्ये बीजपूरकाः।
इति सञ्चिन्त्य मनसा विदद्रे दाडिमीफलम्॥ 138 ॥
आ पुष्पप्रसवान्मनोहरतया विश्वास्य विश्वं जनं हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह।
यावन्नैति परोपभोगसहतामेषा ततस्तां तथा ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनातिवन्द्यो भवान्॥ 139 ॥