१८ द्राक्षा

1दासेरकस्य दासीयं बदरी यदि रोचते।
एतावतैव किं द्राक्षा न साक्षादमृतप्रदा॥ 136 ॥

यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम्।
असमञ्जसमिति मत्वा तथापि खलु खिद्यते चेतः॥ 137 ॥


  1. उष्ट्रस्य. ↩︎