अरविन्देषु कुन्देषु रमितं कालयोगतः।
अये माकन्द जानीहि तवैवायं मधुव्रतः॥ 98 ॥
यद्यपि दिशि दिशि तरवः परिमलबहुलाश्च पारिजाताद्याः।
तदपि रसालोऽप्येकः कोकिलहृदये सदा वसति॥ 99 ॥
वेत्ता कोकिल एव ज्ञाता च रसाल एव नियतमिदम्।
यः पञ्चममुद्गायति यस्यास्थिषु पुलकमुकुलानि॥ 100 ॥
लोडितमखिलं गहनं परितो दृष्टाश्च विटपिनः सर्वे॥
सहकार न प्रपेदे मधुपेन तवोपमा जगति॥ 101 ॥
कुन्दे कदम्बे कुमुदेऽरविन्दे यथाकथञ्चित्समयं नयन्ति।
प्राप्ते वसन्ते पुनरुत्तरङ्गा रसाल जानीहि तवैव भृङ्गाः॥ 102 ॥
भूरिशोऽपि च वसन्ति कानने शाखिनो फलविशेषशालिनः।
कोकिलस्य तदपीह मानसं नो रसालमपहाय तुष्यति॥ 103 ॥
आम्र यद्यपि गता दिवसास्ते पुष्पसौरभफलप्रचुरा ये।
हन्त सम्प्रति तथापि जनानां छाययैव दलयस्यतितापम्॥ 104 ॥
फलितस्य रसालशाखिनः फलदानव्यसनैकशालिनः।
विनिपत्य ददातु कः फलं श्रमसुप्ताध्वगपाणिपल्लवे॥ 105 ॥
कति पल्लविता न पुष्पिता वा तरवः सन्ति समन्ततो वसन्ते।
जगतीविजये तु पुष्पकेतोः सहकारी सहकार एक एव॥ 106 ॥
वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र किं निषिद्धा।
परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः॥ 107 ॥
दिङ्मण्डलं परिमलैः सुरभीकरोषि सौन्दर्यमावहसि लोचनलोभनीयम्।
हंहो रसाल फलवर्य तथापि दूये यद्ग्रन्थिलं च कठिनं हृदयं बिभर्षि॥ 108 ॥
1उत्तंसकौतुकरसेन विलासिनीभिर्लूनानि यस्य न नखैरपि पल्लवानि।
उद्यानमण्डनतरो सहकार स त्वमङ्गारकारकरगोचरतां गतोऽसि॥ 109 ॥
यावत्फलोदकमुखः सहकार जातः प्रागेव कण्टकचयेन वृतोऽसि तावत्।
छायापि ते न सुलभा फलमस्तु दूरे तन्निष्फलोऽपि हि वरं सुखसेवनीयः॥ 110 ॥
उत्फुल्लरम्य सहकार रसालबन्धो कूजत्पिकावलिनिवास तथा विधेहि।
गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान्॥ 111 ॥
शश्वन्निसर्गमलिनाः सहकार कामं लुण्ठन्ति तान्यपि मधूनि तव द्विरेफाः।
युक्तं न तत्तव कषाय?रसप्ररोहैरेतान्प्रतारयसि किं कलकण्ठयूनः॥ 112 ॥
रे रे रसाल तरुसार वचो विधेहि वासन्तिकीं स्वफलपल्लवपुष्पलक्ष्मीम्।
तावद्विकस्वरपिकद्विजसात्कुरु द्राङ् न व्यग्रितोऽसि कलभैः शलभैश्च यावत्॥ 113 ॥
यद्यध्वनीन चिरमध्वनि घर्मखिन्नः कासारतीररुहमाश्रय नम्रमाम्रम्।
छायां न केवलमितः श्रमिता लभन्ते कामं पचेलिमफलं विमलं जलं च॥ 114 ॥
सौरभ्यगर्भमकरन्दकरम्बितानि पङ्केरुहाण्यपि विहाय समागतस्त्वाम्।
संसारसार सहकार तथा विधेहि येनोपहासविषयो न भवेद्द्विरेफः॥ 115 ॥
कति कति न वसन्ते वल्लयः शाखिनो वा किसलयसुमनोभिः शोभमाना बभूवुः।
तदपि युवजनानां प्रीतये केवलोऽभूदभिनवकलिकालीभारशाली रसालः॥ 116 ॥
यदेकस्मिन्वर्षे न फलति रसालस्तरुरयं पिकः किं काकेष्टं फलितमपि निम्बं व्रजति किम्।
व्रजन्म्लानिं ग्लानिं न वदति च कस्यापि पुरतः स्मरन्वारं वारं पुनरपि रसालं मृगयते॥ 117 ॥
अधिश्रीरुद्याने त्वमसि भवतः पल्लवचयो धुरीणः कल्याणे तव जगति शाखा श्रमहरा।
मुदे पुष्पोल्लेखः फलमपि च तुष्ट्यै तनुभृतां रसाल त्वां तस्माच्छ्रयति शतशः कोकिलकुलम्॥ 118 ॥
1न तादृक्पूरे न च मलयजे नो मृगमदे फले वा पुष्पे वा तव मिलति यादृक्परिमलः।2
परं त्वेको दोषस्त्वयि खलु रसाले यदधिकः पिके वा काके वा लघुगुरुविशेषं न मनुषे॥ 119 ॥
चिरश्रान्तो दूरादहमुपगतो हन्त मलयात्तदेकं त्वद्गेहे तरुणि परिणेष्यामि दिवसम्।
समीरेणोक्तैवं नवकुसुमिता चूतलतिका धुनाना मूर्धानं नहि नहि नहीत्येव वदति॥ 120 ॥
वियुक्ता वासन्ती बकुलमुकुले नापि मिलितं व्यलोकि व्याकोशः क्षणमपि न कोऽपि क्षितिरुहः।
यमालोक्योत्कण्ठातरलमिह भृङ्गेन चलितं विदूरान्माकन्दः स खलु दलितो यूथपतिना॥ 121 ॥
येऽभिज्ञाः कुसुमोद्गमादनुदिनं त्वामाश्रिताः षट्पदास्ते भ्राम्यन्ति फलाद्बहिर्बहिरहो दृष्ट्वा न सम्भाषसे।
ये कीटास्तव दृक्पथं न च गतास्ते त्वत्फलाभ्यन्तरे धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान्॥ 122 ॥
आकर्ण्याम्रफलस्तुतिं जलमभूत् तं नारिकेलान्तरं प्रायः कण्टकितं तथैव पनसं जातं द्विधोर्वारुकम्।
आस्तेऽधोमुखमेव कादलमलं द्राक्षाफलं क्षुद्रतां श्यामत्वं बत जाम्बवं गतमहो मात्सर्यदोषादिह॥ 123 ॥
यो दृष्टः स्फुरदस्थिसम्पुटवशात्तिर्यक्प्रवालाङ्कुरो दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः सोत्कर्षं फलितो भृशं च विनतः कोऽप्येष चूतद्रुमः॥ 124 ॥
एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः प्रोद्यद्भिः फलपुष्पपत्त्रनिचयैश्चूतः स एकः परम्।
यं वीक्ष्य स्मितवक्त्रमुद्रितमहासन्तोषमुल्लासितस्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थव्रजाः॥ 125 ॥
कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता रम्भापत्त्रनिभं दलं न कुसुमं नो केतकीपुष्पवत्।
सौरभ्यं कुसुमे फले तदपि तत्किञ्चित्समुज्जृम्भते लोको येन रसाल शालनिकरांस्त्यक्त्वा गुणान्स्तौति ते॥ 126 ॥
गर्वं मा कुरु शर्करे तव गुणाञ्जानन्ति राज्ञां गृहे ये दीना धनवर्जिताश्च कृपणाः स्वप्नेऽपि पश्यन्ति नो।
आम्रोऽहं मधुकूपकैर्मम फलैस्तृप्ता हि सर्वे जना हे रण्डे तव किं गुणा मम फलैस्तुल्यं न किञ्चित्फलम्॥ 127 ॥
उन्मीलद्रसबिन्दुगन्धकुसुमावल्ल्यो वसन्तोदये कान्ताः कोमलपल्लवाः कति कति क्रीडावने सन्ति न।
सौभाग्यैकनिधे रसाल तदपि श्रीमञ्जरीशालिनस्त्वत्तोऽन्यत्र च कुत्रचिन्मधुकरश्रेणी न विश्राम्यति॥ 128 ॥
स्निग्धाग्राः फलिनो वृताः परिमलैः पौष्पैर्मधुस्यन्दिनो नानन्दाय भवन्ति किं वनभुवां भूमीरुहो भूरिशः।
माधुर्यं मधुनस्तवैव परमं माकन्द मन्यामहे माध्वीमर्मविदो दृढं मधुलिहः स्यूता यतो मर्मणि॥ 129 ॥
आस्तां गाढतरानुशीलनविधिः संस्पर्शनं दूरतः सम्भाषाविषयीकृतोऽसि न मनागक्ष्णोः पदं प्रापितः।
किं ब्रूमः सहकार तावकगुणानन्यादृशैर्दुर्लभान्सौरभ्येण यदध्वगानपि मुहुः प्रीणासि दूरादपि॥ 130 ॥
त्वं सामान्यतरुभ्रमेण सकलक्षोणीरुहक्ष्मापतौ माकन्देऽपि किरात पातय मुधा मास्मिन्कुठारं हठात्।
एष श्लाघ्यजनस्य जीवितमलिव्यूहस्य बन्धुर्मधोः सर्वस्वं कुसुमायुधस्य विजयामात्यः पिकानां गुरुः॥ 131 ॥
शान्ता घर्मकणाः श्रमः शिथिलितस्तीर्णस्तृषामुद्गमो वारं वारमुदारकोकिलरवैरानन्दितं मानसम्।
सर्वं प्राप्तमभीप्सितं तव तले चूत प्रसन्ना द्विजश्रेणीकूजितरञ्जिताखिलमनो यामो वयं स्वस्ति ते॥ 132 ॥