कालक्रमकमनीयक्रोडेयं केतकीति का शङ्का।
वृद्धिर्यथा यथा स्यास्तथा तथा कण्टकोत्कर्षः॥ 91 ॥
पत्राणि कण्टकशतैः परिवेष्टितानि वार्तापि नास्ति मधुनो रजसान्धकारः।
आमोदमात्ररसिकेन मधुव्रतेन नालोकितानि तव केतकि दूषणानि॥ 92 ॥
एतासु केतकिलतासु विकासिनीषु सौभाग्यमद्भुततरं भवती बिभर्ति।
यत्कण्टकैर्व्यथितमात्मवपुर्न जानंस्त्वामेव सेवितुमुपक्रमते द्विरेफः॥ 93 ॥
एकेन चेत्परिहृतोऽसि महेश्वरेण किं तेन केतक विषादमुरीकरोषि।
अन्ये न किं जगति सन्ति महागुणज्ञा ये त्वां वहन्ति शिरसा नरदेवदेवाः॥ 94 ॥
हे हेमकेतकि कथं बहु गर्वितासि संसेव्यसे मधुकरैरखिलैरितीव।
नैषा रसातिशयता नलिनीवियोगात्तैर्दीयते विकटकण्टकशूलझम्पः॥ 95 ॥
रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम्।
जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नैसर्गिकं प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः॥ 96 ॥