०९ मालती

कुसुमस्तबकानम्राः सन्त्येव परितो लताः।
ततापि भ्रमरश्रान्तिं हरत्येकैव मालती॥ 79 ॥
मालतीकुसुमे भाति गुञ्जन्मत्तमधुव्रतः।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव॥ 80 ॥
गुञ्जति मञ्जु मिलिन्दे मालति मा मौनमुपयासीः।
शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः॥ 81 ॥
अयि किं गुणवति मालति जीवति भवतीं विना मधुपः।
अथ यदि जीवति जीवतु जीवितमपि तस्य जीवनाभासः॥ 82 ॥
मा मालति 1म्लायसि 2यद्यविद्यश्चुचुम्ब 3तुम्बीकुसुमं 4षडङ्घ्रिः।
पदैश्चतुर्भिर्हि युतः पशुश्चेत्स षड्भिरध्यर्धपशुः कथं नो॥ 83 ॥

कति सन्ति लवङ्गलता ललिता नवकोरकिता धरणीसुतले।
कति बन्धुरगन्धभृतस्तरवो गुरवो निवसन्ति गिरौ मलये॥ 84 ॥
अयि मालति सौरभसारविनिर्जितसंविकसत्कमलानिलये।
मधुपानविधौ मधुपस्य पुनर्भुवने भवतीमहमाकलये॥ 85 ॥
किं मालतीकुसुम 5ताम्यसि निष्ठुरेण केनापि यत्किल विलूनमितो6 लताग्रात्।
लोकोत्तरेण विलसद्गुणगौरवेण को नामुना शिरसि नाम करिष्यति त्वाम्॥ 86 ॥

7मदीयस्त्वाधिक्यान्न भवति विमर्दक्षममिदं न चान्येभ्यो रूपं भवति कुसुमेभ्योऽधिकतरम्।
प्रसूनं मालत्यास्तदपि हृदयाह्लादकरणं प्रवीणैरामोदैर्भवति जगतो मौलिनिलयम्॥ 87 ॥

अस्मिन्केलिवने सुगन्धपवने क्रीडत्पुरन्ध्रीजने गुञ्जद्भृङ्गकुले विशालबकुले कूजत्पिकीसङ्कुले।
उन्मीलन्नवपाटलापरिमले मल्लीप्रसूनाकुले यद्येकापि न मालती विकसिता तत्किं न रम्यो मधुः॥ 88 ॥


  1. खिद्यसि. ↩︎

  2. मूढः. ↩︎

  3. इक्ष्वाकुकुसुमम्. ↩︎

  4. षट्पदः. ↩︎

  5. सन्तापं कुरुषे. ↩︎

  6. छिन्नम्. ↩︎

  7. वायुना. ↩︎