०७ अशोकः

गर्वायसे विकचकोरकमञ्जुगुञ्जदुद्वृत्तषट्पदघटाविभवेन किं नु।
वामभ्रुवां चरणताडनदोहदानि किं नाम न स्मरसि तावदशोक तानि॥ 74 ॥
उन्मीलयन्ति कुसुमानि मनोरमाणि के नाम नात्र तरवः समयोचितानि।
कस्येदृशं कथय दोहदमस्ति तस्य यादृग्विनिर्मितमशोकमहीरुहस्य॥ 75 ॥
मृदूनां स्वादूनां लघुरपि फलानां न विभवस्तवाशोक स्तोकः1 स्तबकमहिमा सोऽप्यसुरभिः2
यदेतन्नो तन्वीकरचरणलावण्यसुभगं प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः॥ 76 ॥

किं ते नम्रतया किमुन्नततया किं वा घनच्छायया किं वा पल्लवलीलया किमनया वाशोक पुष्पश्रिया।
यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः3 स्तुवन्नन्वहं न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः॥ 77 ॥


  1. अल्पः. ↩︎

  2. सुगन्धरहितः. ↩︎

  3. समूहः. ↩︎