निसर्गादारामे तरुकुलसमारोपसुकृती 1कृती मालाकारो बकुलमपि कुत्रापि निदधे।
इदं को जानीते यदयमिह कोणान्तरगतो जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम्॥ 72 ॥
दधानः प्रेमाणं तरुषु समभावेन विपुलं न मालाकारोऽसावकृत तरुणां बालबकुले।
अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलैर्दिगन्तानातेने मधुपकुलझङ्कारभरितान्॥ 73 ॥
-
कुशलः. ↩︎