०५ चम्पकः

साधारणतरुबुद्ध्या न मया बद्धस्तवालवालोऽपि।
लज्जयसि मामिदानीं चम्पक भुवनाधिवासिभिः कुसुमैः॥ 64 ॥
यद्यपि खदिरारण्ये गुप्तौ वस्ते हि चम्पको वृक्षः।
तदपि च परिमलमतुलं दिशि दिशि कथयेत्समीरणस्तस्य॥ 65 ॥
रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः।
कामिनस्तु जगृहुस्तदशेषा ग्राहका हि गुणिनां कति न स्युः॥ 66 ॥
केनात्र चम्पकतरो बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम्।
यत्र प्रवृद्धवनशाकविवृद्धिलोभाद्भो भग्नवाटघटनोचितपल्लवोऽसि॥ 67 ॥
उद्यानपालकलशाम्बुनिषेचनानामेतस्य चम्पकतरोरयमेव कालः।
अस्मिन्निदाघनिहते घनवारिणा वा सम्वर्धिते तव वृथोभयथोपयोगः॥ 68 ॥
यन्नादृतस्त्वमलिना मलिनाशयेन किं तेन चम्पक विषादमुरीकरोषि।
विश्वाभिरामनवनीरदनीलवेषाः केशाः कुशेशयदृशः कुशलीभवन्तु॥ 69 ॥
कोपं चम्पक मुञ्च याचकजनैरायासितस्त्वं सखे मा म्लासीः परितो विलोकय तरुः कस्तेऽधिरूढस्तुलाम्।
कोपश्चेन्नियतस्तवास्ति हृदये धात्रे तथा कुप्यतां येन त्वं हि सुवर्णवर्णकुसुमामोदोऽद्वितीयः कृतः॥ 70 ॥
सन्त्येकेऽपि महीरुहाः प्रतिदिनं सम्सक्तमत्तालयस्तत्तादृग्गुणिनो लवङ्गलवलीमाकन्दकुन्दादयः।
आशास्यं जनुरस्य चम्पकतरोर्यत्कोरकान्तर्दलं स्वैरङ्गैरुपमीय राजरमणी सासूयमालोकते॥ 71 ॥