०४ अगरुः

1अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये।
दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेऽपि॥ 62 ॥

एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी स़ञ्चारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः।
धूमेनातिसुगन्धिनात्र विपिने दिक्चक्रमामोदयन्नामूलं परिदह्यतेऽगुरुतरुः कस्मै किमाचक्ष्महे॥ 63 ॥


  1. नाम्ना; [पक्षे] लघुः. ↩︎