सन्त्येव लिखिताकाशा महीयांसो महीरुहः।
तथापि 1जनताचित्तानन्दनश्चन्दनद्रुमः॥ 40 ॥
यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः।
निजवपुषैव परेषां तथापि सन्तापमपहरति॥ 41 ॥
अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते।
उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः॥ 42 ॥
2पाटीर तव 3पटीयान्कः 4परिपाटीमिमामु5रीकर्तुम्।
यत्पिंष6तामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम्॥ 43 ॥
यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां7 नीतः।
तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम्॥ 44 ॥
जनकः सानुविशेषो जातिः काष्ठं भुजङ्गमैः सङ्गः।
स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम्॥ 45 ॥
मूलं भुजङ्गैः शिखरं 8प्लवङ्गैः शाखा विहङ्गैः कुसुमानि भृङ्गैः।
नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वभरैः समन्तात्॥ 46 ॥
कति न सन्ति महीषु महीरुहः सुरभिपुष्परसालफलालयः।
सुरभयन्ति न केऽपि च भूरुहानिति यशोऽस्ति परं तव चन्दन॥ 47 ॥
धिक्चेष्टितानि परशो परिशोचनीयबालप्रवालमलयाद्रिरुहद्रुहस्ते।
निर्भिद्यमानहृदयोऽपि महानुभावः स त्वन्मुखं पुनरभीः सूरभीकरोति॥ 48 ॥
कालागुरौ सुरभितातिशयेऽपि सङ्गादारभ्यते सुरभितापरपादपेऽपि।
पाटीर पाटवमिदं तव सङ्गिवातैस्तादात्म्यमेति कतरो न तरोः समूहः॥ 49 ॥
उपानीतं दूरात्परिमलमुपाघ्राय मरुता समायासीदस्मिन्मधुरमधुलोभान्मधुकरः।
परो दूरे लाभः कुपितफणिनश्चन्दनतरोः पुनर्जीवन्यायाद्यदि तदिह लाभोऽयमतुलः॥ 50 ॥
कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणामत्यानन्दं जनयतु फलैः कोऽपि लोकान्धि9नोतु।
धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं 10संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन॥ 51 ॥
आमोदैस्ते दिशि दिशि गतैर्दूरमाकृष्यमाणा साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः॥ 52 ॥
केचिल्लोचनहारिणः कतिपये सौरभ्यसम्भारिणः केऽप्यन्ये फलधारिणः प्रतिदिनं ते सन्तु हन्त द्रुमाः।
धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम्॥ 53 ॥
भ्रातश्चन्दन किं ब्रवीमि विटपस्फूर्जत्फणाभीषणा गन्धस्यापि महाविषाः फणभृतो गुप्त्यै यदेते कृताः।
दैवात्पुष्पफलान्वितो यदि भवानत्राभविष्यत्तदा नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः॥ 54 ॥
एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरभं ब्रूमस्तै परितो मधुव्रतयुवा येनायमानीयते।
माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदरादुद्भ्राम्य द्विपगण्डमण्डलदलादाकृष्य हृष्यन्मनाः॥ 55 ॥
वासः शैलशिलान्तरेषु सहजः सङ्गो भुजङ्गैः सह प्रेङ्खत्क्षारपयोधिवीचिभिरभूदुद्भूतसेकक्रिया।
जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां कस्मात्ते परतापखण्डनमहो पाण्डित्यमप्यागतम्॥ 56 ॥
लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां 7दुर्वंशैः परुषैरसारहृदयैराक्रान्तमेतद्वनम्।
ते ह्यन्योन्यनिघर्षजातदहनज्वालावलीसङ्कुला न स्वान्येव 8कुलानि केवलमिदं सर्वं दहेयुर्वनम्॥ 57 ॥
सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं नु लोकोत्तरं कीर्तिः किं च दिगङ्गनाङ्गनगता किं त्वेतदेकं शृणु।
सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरानुज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली॥ 58 ॥
श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने येषां सौरभमात्रकं निवसति प्रायेण पुष्पश्रिया।
प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातः प्रसिद्धात्मना योऽसौ गन्धगुणस्त्वया प्रकटितः क्वासाविह प्रेक्ष्यते॥ 59 ॥
जातः केलिकलावतीकुचतटीसौभाग्यमासादितुं त्रैलोक्याधिपतेर्यशः कथयितुं भाले विपद्व्यापितुम्।
किं वाच्यं गुणगौरवस्य महिमा ख्यातोऽखिले भूतले धिग्दैवं कलये यदत्र मलये भग्नः पटीरद्रुमः॥ 60 ॥
एकस्मिन्मलयाचले बहुविधैः किं तैरकिञ्चित्करैः काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः।
केकी कूजति चेत्तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः॥ 61 ॥