०२ पारिजातः

पारिजाततरुं यावन्न लभेत मधुव्रतः।
भ्रमणं तावदेवास्य कुञ्जे कुञ्जे तरौ तरौ॥ 38 ॥
परिमलसुरभितनभसो बहवः कनकाद्रिपरिसरे तरवः।
तदपि सुराणां चेतसि निवसितमिव पारिजातेन॥ 39 ॥