कल्पद्रुमोऽपि कालेन भवेद्यदि फलप्रदः।
को विशेषस्तदा तस्य वन्यैरन्यैर्महीरुहैः॥ 31 ॥
न मया रचितं तवालवालं पयसा वा विहितस्तवाभिषेकः।
अयि कल्पतरो परोपकारे भवतो विश्वविलक्षणः प्रकारः॥ 32 ॥
किं न द्रुमा जगति जाग्रति लक्षसङ्ख्यास्तुल्योपनीतपिककाकफलोपभोगाः।
धन्यस्तु कल्पविटपी फलसम्प्रदानं कुर्वन्सदैव विबुधानमृतैकवृत्तीन्॥ 33 ॥
स्वर्णैः स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा मुक्ताभिः स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः।
सङ्कल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां धिग्जातु द्रुमसङ्कथासु यदयं कल्पद्रुमोऽपि द्रुमः॥ 34 ॥
औदार्यं भुवनत्रयेऽपि विदितं 1सम्भूतिरम्भोनिधेर्वा2सो 3नन्दनकानने 4परिमलो गीर्वाणचेतोहरः।
एवं दातृगुणोत्करः सुरतरोः सर्वोऽपि लोकोत्तरः स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि॥ 35 ॥
न द्वारि द्विरदावली न परितो वानायुजश्रेणयः किंवा शौक्तिकमौक्तिकैर्मृगदृशां तारा न हारावलिः।
हे कल्पद्रुम दूरतोऽस्तु भवतः सेवाभयं वैभवं तुष्यामि त्वयि तावतापि यदि न स्मेरा भवन्ति द्विषः॥ 36 ॥
जन्माभूदुदधौ विधौ सहजता वृन्दारकैर्वन्द्यता तत्तत्कामफलाय शक्तिरतुला यस्यास्ति वश्यानिशम्।
विश्रामाय चिराय कल्पलतिका भूयोऽयमालम्बते कस्त्वां स्तोतुमपि क्षमोऽस्ति तदपि त्वं जल्प कल्पद्रुम॥ 37 ॥