भ्रमति गिरिराट् पृष्ठे गर्जत्युपर्यति सागरो दहति विततज्वालाजालो जगन्ति विषानलः।
स तु विनिहितग्रीवाकाण्डः कटाहकुटोदरे स्वपिति भगवान्कूर्मो निद्राभरालसलोचनः॥ 4 ॥
पुत्रिण्यः कति नात्र सन्ति भुवनेऽभूवन्कियन्त्योऽथवा सौभाग्यैकमठी तथादिकमठी स्त्रीषु प्रशंसास्पदम्।
भग्ने भोगिनी भङ्गुरेषु 1करिषु भ्रष्टोत्सवे दंष्ट्रिणि क्षोणीं साहसिकाग्रणीस्तुलयितुं जागर्ति यस्याः सुतः॥ 5 ॥
-
दिग्गजेषु. ↩︎