अनेके फणिनः सन्ति भेकभक्षणतत्पराः। एक एव हि शेषोऽयं धरणीधरणक्षमः॥ 164 ॥ युक्तोऽसि भुवनभारे मा वक्रां वितनु कन्धरां शेष। त्वय्येकस्मिन्दुःखिनि सुखितानि भवन्ति भुवनानि॥ 165 ॥