तावद्गर्जन्ति मण्डूकाः कूपमाश्रित्य निर्भयाः।
यावत्करिकराकारः कृष्णसर्पो न विद्यते॥ 161 ॥
यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव।
1आशीविषः स दैवाड्डौम्ब2करण्डे स्थितिं सहते॥ 162 ॥
मौलौ सन्मणयो गृहं गिरिगुहा त्यागः 3किलात्मत्वचो निर्यत्नोपनतैश्च 4वृत्तिरनिलैरेकत्रचर्येदृशी।
अन्यत्रानृ5जुवर्त्मता द्विरसना6 वक्त्रे विषं वीक्षणं सर्वामङ्गलसूचकं कथय भो भोगिन्सखे किं न्विदम्॥ 163 ॥?