११ भैकः

दिव्यं चूतरसं पीत्वा गर्वं नो याति कोकिलः।
पीत्वा कर्दमपानीयं बेको रटरटायते॥ 158 ॥
गङ्गादीनां सकलसरितां प्राप्य तोयं समुद्रः किञ्चिद्गर्वी न भवति वपुर्दिव्यरत्नाकरोऽपि।
एको भेकः परममुदितः प्राप्य गोष्पादनीरं को मे को मे रटति बहुधा स्पर्धया विश्वमुच्चैः॥ 159 ॥