०१ आदिवराहः

निष्कन्दामरविन्दिनीं 1स्थपुटितोद्देशां 2कसेरुस्थलीं 3जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान्।
दंष्ट्रायां प्रलयार्णवोर्मिसलिलैराप्लावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी॥ 155 ॥


  1. विषमोन्नतदेशाम्. ↩︎

  2. कन्दविशेषवतीम्. ↩︎

  3. पङ्कः. ↩︎