सर्वलोकपरितोषकारिणि स्वर्धुनीविमलवारिणि स्थिते। 1पूतिगन्धवति 2पल्वलोदके सूकरः सुखमतीव मन्यते॥ 153 ॥ आकर्ण्य गर्जितरवं घनगर्जतुल्यं सिंहस्य यान्ति वनमन्यदिभा भयार्ताः। तत्रैव पौरुषनिधिः स्वकुलेन सार्धं दर्पोद्धुरो वसति वीतभयो वराहः॥ 154 ॥ दुर्गन्धवन्ति. ↩︎ अल्पजलाशयोदके. ↩︎