हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः।
लेढि जिघ्रति सङ्क्षिप्य करोत्यन्नतमाननम्॥ 150 ॥
कपिरपि च कापिशायनमदमत्तो वृश्चिकेन सन्दष्टः।
अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य॥ 151 ॥
वृक्षान्दोलनमद्य ते क्व तु गतं नर्म स्वयूथस्य वा यूकान्वेषणरोषसौख्यबहुलाश्चेष्टा मुखोत्थाः क्व ताः।
क्वारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका भीतः सम्प्रति कौशिकाद्गलवलद्व्यालः कपे नृत्यसि॥ 152 ॥