नास्य भारग्रहे शक्तिर्न च वाहगुणः क्वचित्।
देवागारे बलीवर्दस्तथाप्यश्नाति भोजनम्॥ 139 ॥
गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते।
असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गलिः॥ 140 ॥
जाल्मो गुरुः सुघृष्टो वामेतरचरणभेद उपदेशः।
ख्यातिर्गुणधवल इति भ्रमसि सुखं वृषभ रथ्यासु॥ 141 ॥
1अनसि सीदति सैक2तवर्त्मनि प्रचुरभारभरक्षपितौक्षके।
गुरुभरोद्धरणोद्धरकन्धरं स्मरति सारथिरेष धुरन्धरम्॥ 142 ॥
एतानि बालधवल प्रविहाय कामं गोष्ठाङ्गणे तरलतर्णकचेष्टितानि।
स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्ते नेतव्यतामुपगतोऽस्ति तवैव भारः॥ 143 ॥
गुरुर्नायं भारः क्वचिदपि न पन्थाः स्थपुटितो न ते कुण्ठा शक्तिर्वहनमपि तेऽङ्गे न विकलम्।
इह त्वङ्गे नान्यस्तव गुणसमानस्तदधुना धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः॥ 144 ॥
मार्गे कर्दमदुर्गमे जलभृते 3गर्ताशतैराकुले खिन्ने 4शाकटिके भरेऽतिविषमे दूरं गते रोधसि।
शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनीमीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम्॥ 145 ॥
दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्बुरः कुक्षिश्चन्द्रकितो वपुः कुसुमितं सङ्घूर्णितं चेष्टितम्।
अस्मिन्दुष्टवृषे मृषा मितगुणग्रामानभिज्ञात्मनो ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति॥ 146 ॥
केषाञ्चिद्धवलाश्चिरं निवसिताश्चित्ते परेषां पुनर्नीलो वा कपिलोऽथवा वरवृषो रक्तोऽथवा मेचकः।
ग्रामीणैरवधीरितोऽपि शिथिलस्कन्धोऽप्यनुच्चैःश्रवाः स्वान्ते मे परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः॥ 147 ॥
न ध्वानं कुरुते न यासि विकटं नोच्चैर्वहस्याननं दर्पान्नोल्लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे।
किन्तु त्वं वसुधातलैकधवलः स्कन्धाधिरूढे भरे तीराण्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन्क्षीयसे॥ 148 ॥
यस्यादौ व्रजमण्डनस्य वहतो गुर्वीं धुरं धैर्यतो धौरेयैः प्रगुणीकृतो न युगपत्स्कन्धः समस्तैरपि।
तस्यैवं श्लथकम्बलस्य धवलस्योत्थापने साम्प्रतं 5द्रङ्गेऽत्रैव जरावसादिततनोर्गोः पुण्यमुद्घोष्यते॥ 149 ॥