वपुर्विषमसंस्थानं कर्णज्वरकरो रवः।
1करभस्या2शुगत्यैव छादिता दोषसंहितः॥ 124 ॥
दासेरको रसत्येष युक्तं भारेऽधिरोहति।
उत्तार्यमाणोऽपि पुनर्यत्तत्र किमु कुर्महे॥ 125 ॥
तुभ्यं दासेर दासीयं बदरी यदि रोचते।
एतावता हि किं द्राक्षा न साक्षादमृतप्रिया॥ 126 ॥
दुःप्रपमम्बु पवनः परुषोऽतितापी छायाभृतो न तरवः फलभारनम्राः।
इत्थं सखे करभ वच्मि भवन्तमुच्चैः का सङ्गतिः खलु मरौ रमणीयतायाः॥ 127 ॥
अस्याननस्य भवतः खलु कोटिरेषा कण्टारिका यदि भवेदविशीर्णपर्णा।
योग्या कथं करभ कल्पतरोर्लतायास्ते पल्लवा विमलविद्रुमभङ्गभाजः॥ 128 ॥
रूक्षं वपुर्न च विलोचनहारि रूपं न श्रोत्रयोः सुखदमारटितं कदापि।
इत्थं न साधु तव किञ्चिदिदं च साधु तुच्छे रतिः करभ कण्टकिनि द्रुमे यत्॥ 129 ॥
कुमुदशबलैः फुल्लाम्भोजैः सरोभिरलङ्कृतां मरकतमणिश्यामां 3शष्पैर्विहाय वनस्थलीम्।
स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां परिचयरतिः सा दुर्वारा न सा गुणवैरिता॥ 130 ॥
करभदयिते योऽसौ पीलुस्त्वया4 मधुलुब्धया व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः।
चलकिसलयः1 सोऽपीदानीं प्ररूढनवाङ्कुरः करभदयितावृन्दैरन्यैः सुखं परिभुज्यते॥ 131 ॥
करभदयिते यत्तत्पीतं सुदुर्लभमेकदा मधु वनगतं तस्यालाभे विरौषि किमुत्सुका।
कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरैर्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा॥ 132 ॥
यस्मिन्नुच्चैर्विषमगहनान्तर्गता स्वादुवल्ली स्वेच्छं भुक्ता सरलितगलेनात्मचेतोनुलग्ना।
तत्तारुण्यं करभ गलितं कुत्र ते प्राग्विलासा यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि॥ 133 ॥
चिन्तां मुञ्च गृहाण पल्लवमिदं प्लक्षस्य शालस्य वा गङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब।
जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो रम्याः पीलुशमीकरीरबदरीकूजत्कपोताकुलाः॥ 134 ॥
यस्यासीन्नवपीलुपत्त्रबदरग्रासोऽपि सन्तुष्टये दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि।
सोऽयं सम्प्रति याति बालकरभः क्षीणोद्यमः क्षामतां मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु॥ 135 ॥
पीलूनां फलवत्कषायमधुरं रोमन्थयित्वा मरौ शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः।
तत्स्मृत्वा करभेण खेदविधुरं दीर्घं तथा फूत्कृतं प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा॥ 136 ॥
यस्याः सम्भृतमालवालवलयं भूपालशृङ्गारिणीभृङ्गारोदरविप्रलम्भविधुरैर्नीरैः सुधाबन्धुभिः।
तामेतां मृदुलप्रवालललितां द्राक्षालतामारटन्नुद्ग्रीवः प्रकटीकृतार्धदशनो दासेरकः कृन्तति॥ 137 ॥