०३ मृगः

इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि।
तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोऽयम्॥ 99 ॥
तृणमुखमपि न खलु त्वां त्यजन्ति हे हरिण वैरिणः शबराः।
यशसैव जीवितमिदं त्यज योजितशृङ्गसङ्ग्रामः॥ 100 ॥
विद्धा मृगी व्याधशिलीमुखेन मृगस्तु तत्कातरवीक्षितेन।
विहाय देहं विगतव्यथैका परस्य जीवावधिराधिरासीत्॥ 101 ॥
कति कति न मदोद्धताश्चरन्ति प्रतिशिखरं प्रतिकाननं कुरङ्गाः।
क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान्॥ 102 ॥
अयि 1कुरङ्गि 2तपोवनविभ्रमादुपगतासि किरातपुरीमिमाम्।
इह न पश्यसि दारय मारय ग्रस पिबेति शुकानपि जल्पतः॥ 103 ॥

अयि कुरङ्गि तुरङ्गमविक्रमे त्यज वनं जवनं गमनं कुरु।
इह वने विचरन्ति हि नायकाः सुरभिलोहितलोहितसायकाः॥ 104 ॥
सेयं स्थली वनतृणाङ्कुरजालमेतत्सेयं मृगीति हृदि जातमुदः कुरङ्गः।
नैवं तु वेत्ति यदिहान्तरितो लताभिरायाति सज्जितकठोरशरः किरातः॥ 105 ॥
रोम3न्थमारचय मन्थरमेत्य निद्रां मुञ्च श्रमं तदनु सञ्चर रे यथेच्छम्।
दूरे स पामरजनो मुनयः किलैते निष्कारणं हरिणपोत बिभेषि कस्मात्॥ 106 ॥
1एणीगणेषु गुरुगर्वनिमीलिताक्षः किं कृष्णसार खलु खेलसि काननेऽस्मिन्।
सीमामिमां 2कलय भिन्नकरीन्द्रकुम्भमुक्तामयीं 4हरिविहारवसुन्धरायाः॥ 107 ॥

कस्तूरिकां हरिण मुञ्च वनोपकण्ठं मा सौरभेण ककुभः सुरभीकुरुष्व।
आस्तां यशो ननु किरातशराभिघातात्त्रातापि हन्त भविता भवतो दुरापः॥ 108 ॥
द्रुततरमितो गच्छ प्राणैः कुरह्ग वियुज्यसे किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे।
विदधति हतव्याधानां ते मनागपि नार्द्रतां कठिनमनसामेषामेते विलोकितविभ्रमाः॥ 109 ॥
स्थलीनां दग्धानामुपरि मृगतृष्णामुपसरंस्तृषार्तः सारङ्गो विरमति न खिन्नेऽपि मनसि।
अजानानस्तत्त्वं न स मृगयतेऽन्यत्र सरसीमभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते॥ 110 ॥
पुरो रेवापारे गिरिरतिदुरारोहशिखरो धनुष्पाणिः पश्चाच्छबरनिकरो धावति पुनः।
सरः सव्येऽसव्ये दवदहनदाहव्यतिकरः क्व यामः किं कुर्मो हरिणशिशुरेवं विलपति॥ 111 ॥
अग्रे व्याधः करधृतशरः पार्श्वतो जालमाला पृष्ठे वह्निर्दहति नितरां सन्निधौ 5सारमेयाः।
एणी गर्भादलसगमना बालकै रुद्धपादा चिन्ताविष्टा वदति हि मृगं किं करोमि क्व यामि॥ 112 ॥

सौरभ्येण त्रिभुवनमनोहारिणा काननेऽस्मिन्सत्कस्तूरीहरिण भवता वासितो दिग्विभागः।
तस्यैतत्ते फलमुपगतं पत्त्रिभिर्लुब्धकानां विद्धः प्राणांस्त्यजसि न गुणः श्रेयसे निर्गुणेषु॥ 113 ॥
अल्पायासबलेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः।
हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः॥ 114 ॥
सारङ्गो न लतागृहेषु रमते नो पांसुले भूतले नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि।
तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं शैलेन्द्रोदरकन्दरासु गतधीः शृङ्गावशेषः स्थितः॥ 115 ॥
आः कष्टं वनवाससाम्यकृतया सिद्धाश्रमश्रद्धया पल्लीं बालकुरङ्ग सम्प्रति कुतः प्राप्तोऽसि मृत्योर्मुखम्।
यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहितस्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः॥ 116 ॥
स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता भङ्गप्रस्नुतदुग्धबिन्दुमधुरा शालेर्नवा मञ्जरी।
निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथस्तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति॥ 117 ॥
त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली विश्रान्तिस्थितिहेतवो न गणिता बन्धूपमाः पादपाः।
बालापत्यवियोगकातरमुखी त्यक्तार्धमार्गे मृगी मृग्यन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्ति माम्॥ 118 ॥
यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा3 नैषां गर्वगिरः शृणोषि न च तान्प्रत्याशया धावसि।
1काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः॥ 119 ॥

नात्र व्याधशराः पतन्ति परितो नैवात्र दावानलो नाप्युच्चावचभीतिरस्ति कुहचिन्नो वागुरा भङ्गुराः।
पर्यालोच्य कुरङ्गकेण विहितो नक्षत्रनाथाश्रयो नो जानाति यदत्र दास्यति विधिः स्वर्भानुदन्तव्रणम्॥ 120 ॥
व्योमार्धे ज्वलितो रविः कवलितं दावानलैः काननं धूम्याभिर्न दिशः स्फुरन्ति परितः पन्थाः शिलादन्तुरः।
इत्थं लोहितसिक्तसृक्वणि यथाप्राणं मृगे धावति व्याधेनापि शरासने करुणया नारोपितः सायकः॥ 121 ॥
भुक्त्वा भव्यतृणानि नव्यसलिलान्यापीय वापीतलान्निःशङ्कं परिशील्य शीतलतरून्रोमन्थमभ्यस्यति।
या सैवाद्य मृगी मृगादनमुखप्राप्ता शिशुं शोचते तद्वेधा बहुधा विपद्विरचने बीजानि नापेक्षते॥ 122 ॥
पाशक्षुण्णखुरस्य बाणपतनप्रव्यक्तरक्तच्छटाछन्नाङ्गस्य दवाग्निदाहविकलस्यासेदुषोऽप्याश्रमम्।
धिग्दैवं विषमा मृगस्य दिवसाः सर्गानुकम्पामयो मा भैषीरिति भाषणेऽपि यदभूद्वाचंयमोऽयं मुनिः॥ 123 ॥


  1. हे हरिणि. ↩︎ ↩︎ ↩︎

  2. तपोवनभ्रान्त्या. ↩︎ ↩︎

  3. मिथ्या. ↩︎ ↩︎

  4. सिंहविहारस्थानस्य. ↩︎

  5. श्वानः. ↩︎