गजस्य पङ्कमग्नस्य त्रपाकरमिदं महत्।
पादमुद्धृत्य यद्गच्छन्हरिणोऽपि हसत्यसौ॥ 55 ॥
मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति चेत्।
कुलानुरूपं तत्तस्य यो गजो गज एव सः॥ 56 ॥
ग्रासाद्गलितसिक्थस्य किं गतं करिणो भवेत्।
पिपीलिकस्तु तेनैव सकुटुम्बोऽपि जीवति॥ 57 ॥
बन्धनस्थो हि मातङ्गः सहस्रभरणक्षमः।
अपि स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः॥ 58 ॥
अन्तर्वसति मार्जारी शुनी वा राजवेश्मनि।
बहिर्बद्धोऽपि मातङ्गस्ततः किं लघुतां गतः॥ 59 ॥
रवितप्तो गजः पद्मांस्तद्गृह्यान्बाधितुं ध्रुवम्।
सरो विशति न स्नातुं गजस्नानं हि निष्फलम्॥ 60 ॥
कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा।
सोऽपि न पयसा लिप्तो लाघवमात्मा परं नीतः॥ 61 ॥
यदि मत्तोऽसि मतङ्गज किममीभिरसारसरलतरुदलनैः।
1हरिमनुसर खरनखरं व्यपनेष्यति ते स करटकण्डूतिम्॥ 62 ॥
कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः।
अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः॥ 63 ॥
लीलामुकुलितनयनं किं सुखशयनं समातनुषे।
परिणामविषमहरिणा करिनायक वर्धते वैरम्॥ 64 ॥
आपातालगभीरे मज्जति नीरे निदाघसन्तप्तः।
न स्पृशति पल्वलाम्भः पञ्जरशेषोऽपि कुञ्जरः क्वापि॥ 65 ॥
सूते सूकरगृहिणी सुतशतमतिदुर्भगं झटिति।
करिणी चिराय सूते कमपि महीपाललालितं कलभम्॥ 66 ॥
गिरिगह्वरेषु गुरुगर्वगुम्फितो गजराजपोत न कदापि सञ
्चर।
यदि बुध्यते हरिशिशुः स्तनन्धयो भविता करेणुपरिशेषिता मही॥ 67 ॥
केलिं2 कुरुष्व परिभुङ्क्ष्व सरोरुहाणि 3गाहस्व शैलतटनिर्झरिणीपयांसि।
भावानुरक्तकरिणीकरलालिताङ्ग मातङ्ग मुञ्च मृगराजरणाभिलाषम्॥ 68 ॥
भो भोः करीन्द्र दिवसानि कियन्ति तावदस्मिन्मरौ4 सम5तिवाहय कुत्रचित्त्वम्।
रेवाजलैर्निजकरेणुकरप्रयुक्तैर्भूयः शमं गमयितासि निदाघदाहम्॥ 69 ॥
6दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः करिवरेण मदान्धबुद्ध्या।
तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्वि7कचपद्मवने चरन्ति॥ 70 ॥
8लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च।
श्वा पिण्डदस्य कुरुते 9गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते॥ 71 ॥
गण्डस्थले हि मदवारिजलाघैलुब्धमत्तभ्रमद्भ्रमरपादतलाहतोऽपि।
कोपं न गच्छति नितान्तबलोऽपि नागस्तुल्ये बले हि बलवान्परिकोपमेति॥ 72 ॥
न स्वां करेणुमपि नापि निजान्किशोरान्नात्मानमेष परिशोचति वारणेन्द्रः।
दावाग्निमग्नतनुरत्र यथोपसन्नान्दानार्थिनो मधुकरानधिरूढभावान्॥ 73 ॥
1दानं ददत्यपि 2जलैः सहसाधिरूढे3 को विद्य4मानगतिरा5सितुमुत्सहेत6।
यद्दन्तिनः 7कटकटाहतटान्मि8मङ्क्षोर्मङ्क्षू9दपाति परितः पटलैरलीनाम्॥ 74 ॥
(2. उदकैः; (पक्षे डलयोरभेदात्) जडैः.)
न गृह्णाति ग्रासं नवकमलकिञ्जल्किनि जले न पङ्कैर्वाह्लादं विशति बिसभङ्गार्धशबलैः।
ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः॥ 75 ॥
गले पाशस्तीव्रश्चरणयुगले गाढनिगडो दृढं स्कन्धे बन्धः शिरसि [^10]सृणिपातः खरतरः।
नरः स्कन्धारूढो बत मरणयोग्येऽपि विषये न जानीमोऽत्यर्थं द्विरद वद कस्मात्तव मदः॥ 76 ॥
निषेवन्तामेते वृषमहिषमेषाश्च हरिणा गृहाणि क्षुद्राणां कतिपयतृणैरेव सुखिनः।
गजानामास्थानं मदसलिलजम्बालितभुवां तदेकं विन्ध्याद्रेर्विपिनमथवा भूपसदनम्॥ 77 ॥
न कुर्याः प्राखर्यं किमपि करिपोत प्रतिभिया हरीणां हेलेयं यदिह बहुवेलं विहरसि।
अकस्मादेतेषां कुटिलदृशि रोषस्पृशि मनाङ्निरर्थं भाविन्यो मदकरिदरिद्रा वनभुवः॥ 78 ॥
जहीहि गुरुगर्जितं विजहि शुण्डया सीत्कृतं परिभ्रम शनैर्वनं किमु गजेन्द्र गर्वायसे।
यथा न किल केसरी गिरिदरीषु निद्रां त्यजन्विमूर्च्छयति जृम्भया सुभग तावकीनं मनः॥ 79 ॥
रे चाञ्चल्यजुषो मृगाश्रितनगाः कल्लोलमालाकुलामेतामम्बुधिगामिनीं व्यवसिताः सङ्गाहितुं वा कथम्।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो यद्गावेन रसातलं पुनरसौ यातो गजग्रामणीः॥ 80 ॥
नीवार10प्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवे पीतं येन सरोजपत्त्रपुटके होमावशेषं पयः।
तं पश्चान्मदमन्थरालिवलयव्यालुप्तगण्डं गजं सानन्दं सभयं च पश्यति मुर्हुदूरे स्थितस्तापसः॥ 81 ॥
कर्णे चामरचारुकम्बुकलिकाः कण्ठे मणीनां गणाः सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्किणी।
लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भूषाविधिस्तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी॥ 82 ॥
पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरास्तापार्तेन निमज्ज्य यत्र सरसो मध्ये विमुक्तः श्रमः।
धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मथ्नतो मूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते॥ 83 ॥
तापो नापगतस्तृषा न च कृशा धौता न धूली तनोर्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा।
दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी प्रारब्धो मधुपैरकारणमहो झाङ्कारकोलाहलः॥ 84 ॥
नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः सिंहेनापि न लङ्घिता किमपरं यस्योद्धता पद्धतिः।
कष्टं सोऽपि 1कदर्थ्यते करिवरः स्फारावरैः पेरवैरापातालगभीरपङ्कपटलीमग्नोऽद्य 2भग्नोद्यमः॥ 85 ॥
पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः।
प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते॥ 86 ॥
आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मयेत्यन्तः सम्भृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि।
मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वरस्तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुम्॥ 87 ॥
कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते प्रायो 3भाजनमस्य सम्प्रति भवांस्तत्पीयतामादरात्।
उन्मज्जच्छफरीपु4लिन्दललनापीनस्तनास्फालनस्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा॥ 88 ॥
नो मन्ये दृढबन्धनात्क्षतमिदं नैवाङ्कुशाघातनं स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम्।
चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथ्यान्वने सिंहत्रासितभीतभीरु5कलभा यास्यन्ति कस्याश्रयम्॥ 89 ॥
पत्युर्यत्पतितावशेषकवलग्रासेन वृत्तिः कृता पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः।
प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं यद्बन्धव्रणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम्॥ 90 ॥
क्रीडाकारि तडागवारिणि गतातङ्कं न पङ्केरुहैर्वल्ली काचन शल्लकीतरुगता नाकर्षिता हर्षतः।
नाश्लिष्टा करिणी करेण करिणा कामातुरेणामुना दंष्ट्राभिर्विकटाननः शिव शिव व्यालोकि पञ्चाननः॥ 91 ॥
सान्द्रामोदवतीः स्वकीयवसतीः पङ्केरुहाणां ततीस्त्यक्त्वायं भ्रमरः करीन्द्र भवतामभ्याशमभ्यागतः।
एतच्चेतसि सम्प्रधार्य जगतीविख्यातदानैस्तथा युष्माभिः क्रियतां यथोपरमते हास्याय नास्यागमः॥ 92 ॥
त्यक्तो विन्ध्यगिरिः पिता भगवती माता च रेवोज्झिता त्यक्ताः स्नेहनिबद्धबन्धुरधियस्तुल्योदया हन्तिनः।
त्वल्लोभान्ननु हस्तिनि प्रतिदिनं बन्धाय दत्तं वपुस्त्वं दूरीक्रियसे लुठन्ति च शिरःपीठे करोराङ्कुशाः॥ 93 ॥
स्पर्धन्तां सुखमेव कुञ्जरतया दिक्कुञ्जरैः कुञ्जरा ग्राम्या वा वनवासिनो मदजलप्रस्निग्धगण्डस्थलाः।
आः कालस्य कुतूहलं शृणु सखे प्राचीनपालीमलैः प्रायः स्निग्धकपोलपालिरधमः कोलोऽपि सम्स्पर्धते॥ 94 ॥
यत्प्रत्यग्रदलावलीकवलनैर्जातोऽसि शैलोपमो यच्छायासु कदर्थितोऽसि न कदाप्यर्कांशुभिः कर्कशैः।
घोराघातकिरातपत्त्रिपतने यैर्वारबाणायितं तन्मातङ्ग मदान्ध पाटयसि किं विन्ध्याटवीपादपान्॥ 95 ॥
ऊर्णां नैष दधाति नापि विषयो वाहस्य दोहस्य वा तृप्तिर्नास्य महोदरस्य बहुशो घासैः 1पलालैरपि।
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते को गृह्णाति कपर्दकैरमुमिति ग्राम्यैर्गजो हस्यते॥ 96 ॥
घासग्रासं गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः पाशग्रन्थिव्रणानामविरलमधुना देहि पङ्कानुलेपम्।
दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तदृश्या रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः॥ 97 ॥
यूथान्यग्रे गतानि प्रबलबलभृतो बद्धवैरा मृगेन्द्रा मूलादाकृष्यमाणाः सपदि तटरुहो भूरुहा निष्पतन्ति।
दृष्ट्वा हृष्यन्ति हन्त प्रतिदिनमखिला भिल्लपल्ल्या अधीशा हस्तालम्बाय केषां कलयतु वदनं पङ्कमग्नः करीन्द्रः॥ 98 ॥