एकोऽहमसहायोऽहं कृशोऽहम1परिच्छदः।
स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते॥ 1 ॥
मृगेन्द्रं वा मृगारिं वा सुखं व्याहरतां जनः।
तस्योभयमपि व्रीडा क्रीडादलितदन्तिनः॥ 2 ॥
मृगेभ्यो रक्ष्यते क्षेत्रं नरैस्तृणमयैरपि।
सिंहाक्रान्तं पुनर्मूढ न हयैर्न च दन्तिभिः॥ 3 ॥
मृगैर्नष्टं शशैर्लीनं वराहैश्चलितं स्थलात्।
हयानां हेषितं श्रुत्वा सिंहैः पूर्ववदासितम्॥ 4 ॥
खनन्नाखुबिलं सिहः पाषाणशकलाकुलम्।
प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत्॥ 5 ॥
जीर्णोऽपि 2क्रमहीनोऽपि कृशोऽपि यदि केसरी।
तथापि यूथनाथस्य शङ्कातङ्काय कल्पते॥ 6 ॥
नाभिषेको न सम्स्कारः सिंहस्य क्रियते वने।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥ 7 ॥
वेत3ण्डगण्डकण्डूतिपाण्डित्य4परिपन्थिना।
हरिणा 5हरिणालीषु कथ्यतां कः पराक्रमः॥ 8 ॥
उत्तुङ्गमत्तमातङ्गमस्तकन्यस्तलोचनः।
आसन्नेऽपि च 6सारङ्गे न वाञ्छां कुरुते 7हरिः॥ 9 ॥
जातः स्तन्यं न जग्राह कण्ठीरवकिशोरकः।
चक्षुर्व्यापारयामास कुञ्जे कुञ्जरशालिनि॥ 10 ॥
वरमुन्नतला8ङ्गूलात्सटा9धूननभीषणात्।
सिंहात्पादप्रहारोऽपि न शृगालाधिरोहणम्॥ 11 ॥
शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक।
कुले तस्मिन् प्रजातोऽसि गजो यत्र न हन्यते॥ 12 ॥
यस्मिञ्जीवति सिंहे वनमिदमासीद्दुरासदं द्विरदैः।
घटयन्ते कटिसूत्रं तस्य सटाभिः शबरशिशवः॥ 13 ॥
एकाकिनि वनवासिन्य1राजलक्ष्मण्यनीतिशास्त्रज्ञे।
10सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति॥ 14 ॥
अनिशं मतङ्गजानां बृंहित11माकर्ण्यते यथा विपिने।
मन्ये तथा न जीवति 12गजेन्द्रपलकवलनः सिंहः॥ 15 ॥
यद्यपि च दैवयोगात्सिंहः पतितोऽतिदुस्तरे कूपे।
तदपि च वाञ्छति सततं करिकुम्भविदारणं मनसि॥ 16 ॥
यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः।
तदपि न कुप्यति सिंहोऽप्यसदृशपुरुषेषु कः कोपः॥ 17 ॥
जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः।
करिणामरिणा हरिणा हरिणाली हन्यतां नु कथम्॥ 18 ॥
हेलाविदलितकरिकुल कण्ठीरव कीदृशः प्रकोपोऽयम्।
लोले बालशृगाले केवलकोलाहलाधारे॥ 19 ॥
गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि।
हरिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य लीयते निभृतम्॥ 20 ॥
वयोभिमानादपमानता चेद्विधीयते फेरुजरत्तरेण।
हेलाहतानेककरीन्द्रयूनोर्हरीन्द्रसूनोर्नहि कापि हानिः॥ 21 ॥
भिनत्ति भीमं करिराजकुम्भं बिभर्ति वेगं पवनादतीव।
करोति वासं गिरिगह्वरेषु तथापि सिंहः पशुरेव नान्यः॥ 22 ॥
गम्यते यदि मृगेन्द्रमन्दिरे लभ्यते करिकपोलमौक्तिकम्।
जम्बुकालयगतेन लभ्यते वत्सपुच्छखुरचर्मखण्डनम्॥ 23 ॥
येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही।
अद्य तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः॥ 24 ॥
हरिरलसविलोचनः सहेलं 2बलमवलोक्य पुनर्जगाम निद्राम्।
अधिगतपतिविक्रमास्तभीतिर्न तु वनितास्य विलोकयाञ्चकार॥ 25 ॥
उत्तुङ्गशैलशिखरस्थितपादपस्य काकोऽपि पक्वफलमालभते सपक्षः।
सिंहो बली गजविदारणदारुणोऽपि सीदत्यहो तरुतले खलु हीनपक्षः॥ 26 ॥
अन्तर्बलान्यहममुष्य मृगाधिपस्य वाचा निवेद्य कथमद्य लघूकरोमि।
जानन्ति किं तु करजक्षतकुम्भिकुम्भनिर्मुक्तमौक्तिकमयानि वनान्तराणि॥ 27 ॥
आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो मृगपतेः पदवीं यदि श्वा।
मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य॥ 28 ॥
भिन्ना महागिरिशिलाः करजाग्रजाग्रदुद्दामशौर्यनिकरैः करटिभ्रमेण।
दैवे पराञ्चि करिणामरिणा तथापि कुत्रापि नापि खलु हा पिशितस्य लेशः॥ 29 ॥
3पारीन्द्रशावक न तावकरीतिरेषा वेशान्तरैर्विहरसि श्वशृगालशावैः।
कुम्भीन्द्रकुम्भदलनोत्पतनाक्रमेच्छां वंशोचितां न खलु रीतिमुरीकरोषि॥ 30 ॥
उत्प्लुत्य यः शिखरिणं मदकुम्भिकुम्भमुद्भिद्य सानुशतमायतमुल्ललङ्घे।
पञ्चाननो नियतया जरयाभिभूतः सोऽयं करौ लिहति बृंहितलोहिताक्षः॥ 31 ॥
दिगन्ते श्रूयन्ते मदमलिनगण्डाः 4करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः॥ 32 ॥
न यत्र स्थेमानं5 दधुरतिभयभ्रान्तनयना गलद्दानोद्रेकभ्रमदलिकदम्बाः करटिनः।
लुठन्मुक्ताभारे भवति परलोकं गतवतो 6हरेरद्य द्वारे शिव शिव शिवानां7 कलकलः॥ 33 ॥
कुरङ्गीणां यूथं निभृतमिदमङ्गीकृतमयं निरातङ्को यन्निर्दयहृदयभावोऽर्दयतु तत्।
निवेद्यो वा कस्मिन्नयमविनयः केसरियुवा हठान्मत्तेभानां युवतिषु विधत्ते नखपदम्॥ 34 ॥
स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे गजे श्रेणीनाथ त्वमिह जटिलायां वनभुवि।
असौ कुम्भिभ्रन्त्या खरनखरनिर्दारितमहागुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः॥ 35 ॥
पिब स्तन्यं पोत त्वमिह मददन्तावलधिया दृगन्तानाधत्से किमिति 2हरिदन्तेषु परुषान्।
त्रयाणां लोकानामपि हृदयतापं परिहरन्नयं धीरं धीरं ध्वनति नवनीलो जलधरः॥ 36 ॥
3क्षुद्राः सन्ति सहस्रशोऽपि विपिने शौण्डीर्यवीर्योद्धतास्तस्यैकस्य पुनः स्तवीमहि महः सिंहस्य विश्वोत्तरम्।
केलिः कोलकुलैर्मदो मदकलैः कोलाहलो 4नाहलैः संहर्षो महिषैश्च यस्य मुमुचे साहंकृते हुंकृते॥ 37 ॥
कोलः केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः कासारे वनकासराः सरभसं मज्जन्त्विह स्वेच्छया।
अभ्यस्यन्त्विभयोषितश्च हरिणा भूयोऽनुरूपां गतिं कान्तारान्तसञ्चरिष्णुरधुना पञ्चाननो वर्तते॥ 38 ॥
नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः 5करः सत्यं वारण नैष केसरिशिशुः स्वाडम्बरैः स्पर्धते।
तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते॥ 39 ॥
6क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशामापन्नोऽपि विपन्नधीधृतिरपि प्राणेषु गच्छत्स्वपि।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी॥ 40 ॥
येनानगर्लकालकेलिकलितप्रत्यग्रकादम्बिनी7धाराधोरणिधौतधातुषु पुरा शैलेषु लीलायितम्।
सोऽयं शृङ्गनिपातभग्नचरणः स्फारस्फुरत्फेर8वीफूत्कारैः कुपितोऽद्य खादति मुहुः पाणी मृगग्रामणीः॥ 41 ॥
ग्रामाणामुपशल्यसीमनि मदोद्रेकस्फुरत्सौष्ठवाः फेत्कारध्वनिमुद्गिरन्ति बहवः सम्भूय गोमायवः।
सोऽन्यः कोऽपि घनाघनध्वनिघनः पारीन्द्रगुञ्जारवः शुष्यद्गण्डमलोलशुण्डमचलत्कर्णं गजैर्यः श्रुतः॥ 42 ॥
एणः क्रीडति शूकरश्च खनति द्वीपो च गर्वायते क्रोष्टा क्रन्दति वल्गते च शशको वेगाद्रुरुधार्वति।
निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया हंहो सिंह विना त्वयाद्य विपिने कीदृग्दशा वर्तते॥ 43 ॥
हे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वहद्वन्यानामवलम्बनं वनमिदं भङ्क्तुं यदुकण्ठसे।
दृष्टस्तत्किमहो महोन्नतधराधौरेयधात्रीधरप्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः॥ 44 ॥
यस्या9वन्ध्यरुषः प्रतापवसतेर्नादेन धैर्यद्रुहः शुष्यन्ति स्म मदप्रवाहसरितः सद्योऽपि दिग्दन्तिनाम्।
दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना कर्षन्त्येव करेण केसरसटाभारं 2जरत्कुञ्जराः॥ 45 ॥
यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत्।
तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थलीभृङ्गः केसरिवीर सम्प्रति पुनः कुत्रैव विश्राम्यतु॥ 46 ॥
यूना येन विभिन्नवारणघटाकुम्भोच्छलन्मौक्तिकश्रेणीभिः परिपूरितास्तटभुवो भूमीभृतां कोटिशः।
तस्यैवाद्य निवाससीम्नि कलभाः क्रीडन्ति निःसाध्वसं पारीन्द्रस्य जरातुरस्य तदहो जीर्णो जिगीषारसः॥ 47 ॥
कः कः कुत्र न घुर्घरायितघुरीघोरो घुरेच्छूकरः कः कः कं कमलाकरं विमलकं कर्तुं करी नोद्यतः।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते॥ 48 ॥
मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुनः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम्॥ 49 ॥
काकः पक्षबलेन भूपतिगृहे ग्रासं यदि प्राप्तवान् किं वा तस्य महत्त्वमस्य लघुता 3पञ्चाननस्यागता।
येनाक्रम्य करीन्द्रगण्डयुगलं निर्भिद्य हेलालवाल्लब्ध्वा ग्रासवरं 4वराटकधिया मुक्तागणस्त्यज्यते॥ 50 ॥
निद्रामीलितलोचनो मृगपतिर्यावद्गुहां सेवते तावत्स्वैरममी चरन्तु हरिणाः स्वच्छन्दसञ्चारिणः।
उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो नादे श्रोतृपथं गते गतधियः सन्त्वेव दीर्घायुषः॥ 51 ॥
स्मेराः सन्तु सभासदः करिचमूदर्पज्वरोत्सारिणा हर्यक्षेण समं च जम्बुकयुवा युद्धाय बद्धादरः।
तत्रापि प्रथयन्ति तुल्यबलतामेके तयोरुच्चकैरन्ये संशयशंसिनस्तदपरे बाढं विपर्यासिनः॥ 52 ॥
हे हर्यक्ष सहस्व सम्प्रति लघुर्गोमायुरग्रे सतां मत्साधारणवन्यजन्तुमनसा गुङ्गारवं संव्यधात्।
नीचानां प्रकृतिर्भ्रमो मुखरता चातः कथं खिद्यसे शार्दूले द्विरदे मृगे शशकुले कस्ते विपक्षग्रहः॥ 53 ॥
दिङ्नागाः प्रतिपेदिरे प्रथमतो जात्यैव जेतव्यतां सम्भाव्य स्फुटविक्रमोऽथ वृषभो गौरेव गौरीपतेः।
विक्रान्तेर्निकषं करोतु कतमं नाम त्रिलोकीतले 5कण्ठे कालकुटिम्बिनीकरुणया सिक्तः स कण्ठीरवः॥ 54 ॥