१२ खद्योतः

जर्जरतृणाग्रमदहन् सर्षपकणमप्रकाशयन्नूनम्।
कीटत्वमात्मतत्त्वात्खद्योतः ख्यापयन्नवति॥ 234 ॥
घनसन्तमसमलीमस दशदिति निशि यद्विराजसि तदन्यत्।
कीटमणे दिनमधुना तरणिकरान्तरितसितकिरणम्॥ 235 ॥
क्वापि गतः पतिरह्नां जलदान्तरितः शशी सनक्षत्रः।
शून्ये तमसि भवानपि खद्योत द्योततां नाम॥ 236 ॥
इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः।
अन्धं समग्रमपि कीटमणे भविष्यत्युन्मेषमेष्यति भवानपि दूरमेतत्॥ 237 ॥
भ्राजिष्णवो नभसि मेघकृतान्तराले स्वल्पप्रभा अपि परैरनिरस्तभासः।
खद्योतकाः प्रकटितोरुतरप्रभावास्तावन्न सप्ततुरगः समुदेति यावत्।1॥ 238 ॥

2अदृष्टव्यापारं गतवति दिनानामधिपतौ 3यशःशेषीभूते शशिनि 4गतधाम्नि ग्रहगणे।
तथा ध्वान्तं जातं जगदुपनते मेघसमये यथामी गण्यन्ते तमसि पटवः कीटमणयः॥ 239 ॥


  1. सूर्यः. ↩︎

  2. दर्शनव्यापाररहितं यथा स्यात्तथा. ↩︎

  3. यशोमात्रावशिष्टे. ↩︎

  4. गततेजसि. ↩︎