एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद्गतमस्य।
साधु कृतान्त न कश्चिदपि त्वां वञ्चयितुं सुशठोऽपि समर्थः॥ 226 ॥
न कोकिलानामिव मञ्जु गुञ्जितं न लब्धलास्यानि गतानि हंसवत्।
न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति बके बकव्रतम्॥ 227 ॥
बकोट ब्रूमस्त्वां लघुनि सरसि क्वापि शफरैस्तव न्याय्या वृत्तिर्न पुनरवगाढुं समुचितः।
इतश्चेतश्चाभ्रंलिहलहरिहेलातरलितक्षितिध्रग्रासैकग्रहिलतिमिपोतः पतिरपाम्॥ 228 ॥
नैर्मल्यं वपुषस्तवास्ति वसतिः पद्माकरे जायते मन्दं याहि मनोरमां वद गिरं मौनं च सम्पादय।
धन्यस्त्वं बक राजहंसपदवीं प्राप्तोऽसि किं तैर्गुणैर्नीरक्षीरविभागकर्मनिपुणा शक्तिः कथं लभ्यते॥ 229 ॥
1जातिस्तस्य न मानसे न 2शुचिभिर्वृत्ति3र्मृणालाङ्कुरैर्न 4ब्रह्मोद्वहनेन निर्मलयसः प्राप्ता न वाचः कलाः।
जीवन्सत्त्ववधेन बाह्यधवलो भ्राम्यन्सगर्वं पुनर्मिथ्यैवोन्नतकन्धरः शठबको हंसैः सह स्पर्धते॥ 230 ॥
रे रे शिष्टबकोट नाकतटिनीतीरे तपस्विव्रतं ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम्।
एवं यत्किल मानसस्य पदवीं काङ्क्षस्य युक्तं हि तन्नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा॥ 231 ॥
न भ्रूणां स्फुरणं न चञ्चुचलनं नो चूलिकाकम्पनं न ग्रीवाचलनं मनागपि न यत्पक्षद्वयोत्क्षेपणम्।
नासाग्रेक्षणमेकपाददमनं कष्टैकनिष्ठं परं यावत्तिष्ठति हीनमीनवदनस्तावद्बकस्तापसः॥ 232 ॥