०९ काकः

वयं काका वयं काका जल्पन्तीति 1प्रगे 2द्विकाः।
तिमिरारिस्तमो हन्यादिति शङ्कितमानसाः॥ 204 ॥

तुल्यवर्णच्छदः कृष्णः कोकिलैः सह सङ्गतः।
केन विज्ञायते काकः स्वयं यदि न भाषते॥ 205 ॥
अहो मोहो वराकस्य काकस्य यदसौ मुहुः।
सीरसर्ति नरीनर्ति पुरतः शिखिहंसयोः॥ 206 ॥
आमरणादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः।
किं जानन्ति वराकाः काकाः केकारवं कर्तुम्॥ 207 ॥
तत्काक त्वयि युक्ताः कटुवाग्वैवर्ण्यधूर्तताशुचिताः।
यदि विष्ठाकृमिपुष्टे तत्र न दोषा हि तच्चित्रम्॥ 208 ॥
विधिरेव विशेषगर्हणीयः3 करट4 त्वं 1रट कस्तवापराधः।
सहकारतरौ चकार यस्ते सह वासं सरलेन कोकिलेन॥ 209 ॥

काकस्य गात्रं यदि काञ्चनस्य माणिक्यरत्नं यदि चञ्चुदेशे।
एकैकपक्षे 2ग्रथितं मणीनां तथापि काको न तु राजहंसः॥ 210 ॥

त्रोटीपुरं करट कुङ्मलयाद्य तात यावत्प्रतिव्रजति नाकमयं मरालः।
नो चेदमङ्गलकटोररवा विहङ्गाः सर्वे भुवीति निजसंसदि शंसिता नः॥ 211 ॥
प्रत्यङ्गणं प्रतितरुं प्रतिवारितीरं काकाश्चरन्ति चलचञ्चुपुटा रटन्तः।
नो यान्ति तृप्तिमथ मण्डितपुण्डरीकखण्डे वसन्नहह तृप्यति राजहंसः॥ 212 ॥
कृष्णं वपुर्वहतु चुम्बतु सत्फलानि रम्येषु सम्वसतु चूतवनान्तरेषु।
पुंस्कोकिलस्य चरितानि करोतु कामं काकः कलध्वनिविधौ स तु काक एव॥ 213 ॥
पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां दधिभृतघटीं गर्वोन्नद्धः समुद्धतकन्धरः।
निजसमुचितास्तास्ताश्चेष्टा विकारशताकुला यदि न कुरुते काणः काकः कदा नु करिष्यति॥ 214 ॥
गात्रं ते मलिनं तथा श्रवणयोरुद्वेगकृत्केङ्कृतं भक्ष्यं सर्वमपि स्वभावचपलं दुश्चेष्टितं ते सदा।
एतैर्वायस सङ्गतोऽस्य विनयैर्दोषैरमीभिः परं यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव धन्यो भवान्॥ 215 ॥
रूक्षस्यामधुरस्य चातिमलिनच्छायस्य धृष्टस्य च क्षुद्रस्य क्षतकारिणोऽतिचपलस्याह्लादविच्छेदिनः।
येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी प्रीतिस्तत्सदृशं विधेर्विलसितं निष्पन्नमेतच्चिरात्॥ 216 ॥
कर्णारुंतु5दमन्त6रेण 7रणितं गाहस्व काक स्वयं 8भाकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम्।
धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालफालपतिते पङ्के न शङ्केत कः॥ 217 ॥

काक त्वं फलनम्रमाम्रविपिनं दैवात्समासादयन् किं कर्णौ बधिरीकरोषि परुषक्रेङ्कारकोलाहलैः।
मौनं चेदवलम्बसे रतभरप्रक्लान्तपुम्स्कोकिलभ्रान्त्यापि त्वयि सञ्चरन्ति न कथं मुग्धाकटाक्षच्छटाः॥ 218 ॥
नो चारू चरणौ न चापि चतुरा चञ्चूर्न वाच्यं वचो नो लीलाचतुरा गतिर्न च शुचिः पक्षग्रहोऽयं तव।
क्रूरक्रेङ्कृतिनिर्भरां गिरमिह स्थाने वृथैवोद्गिरन्मूर्ख ध्वाङ्क्ष न लज्जसेऽप्यसदृशं पाण्डित्यमुन्नाटयन्॥ 219 ॥
यस्याकर्ण्य वचः सुधाकवलितं 3वाचं यमानामपि व्यग्राणि व्यथयन्ति मन्मथकथाश्चेतांसि चैत्रोत्सवे।
रे रे काकवराक 4साकममुना पुम्स्कोकिलेनाधुना स्पर्धाबन्धमुपेयुषस्तव तु किं लज्जापि नोज्जागरा॥ 220 ॥

आलापं कलकण्ठिका न कुरुते कीरा न धीरध्वनिं व्याहारं कलयन्ति कोमलगिरः कूजन्ति नो बर्हिणः।
नीराडम्बरदुर्दिनाम्बरतले दूरे द्विरेफध्वनिः काकाः केवलमेव केङ्कृतरवैः कुर्वन्ति कर्णज्वरम्॥ 221 ॥
बन्धं लब्धवतः परस्य वदनं भिक्षाशया पश्यतः स्वावासच्युतिवेदनां विदधतः कान्तां विना सीदतः।
भ्राम्यन्तः सह भार्यया प्रतिदिशं प्रत्यापगं प्रत्यगं कीरस्याध्ययनं हसन्ति विविधक्रीडालसा वायसाः॥ 222 ॥
किं केकीव शिखण्डमण्डिततनुः किं कीरवत्पाठकः किं वा हंस इवाङ्गनागतिगुरुः 1सारीव किं सुस्वरः।
किं वा हन्त शकुन्तबालपिकवत्कर्णामृतं स्यन्दते काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे॥ 223 ॥

अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं वेत्त्याख्याति च धिक्शुकादय इमे सर्वे पठन्तः स्थिताः।
मत्कान्तस्य वियोगतापदहनज्वालावलीवारिदः काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे॥ 224 ॥
अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं मा काकं व्याकुलोभूस्तरुशिरखरशवक्रव्यलेशानशान।
धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्रद्ग्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः॥225


  1. प्रातः-काले. ↩︎ ↩︎ ↩︎

  2. द्वौ ककारौ नाम्नि विद्येते येषां ते. ↩︎ ↩︎

  3. निन्द्यः. ↩︎ ↩︎

  4. काक. ↩︎ ↩︎

  5. पीडाजनकम्. ↩︎

  6. विना. ↩︎

  7. शब्दितम्. ↩︎

  8. आम्रवृक्षम्. ↩︎