०८ शुकः

अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु।
शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम्॥ 181 ॥
किंशुके1 शुक मा तिष्ठ चिरं भाविफलेच्छया।
बाह्यरङ्गप्रसङ्गेन के के नानेन वञ्चिताः॥ 182 ॥

काकाः किं किं न कुर्वन्ति क्रेङ्कारं यत्र यत्र वा।
शुक एव परं वक्ति नृपहस्तोपलालितः॥ 183 ॥
2शुक तव पठनं व्यसनं न गुणः स गुणाभासः।
समजनि येनामरणं3 शरणं पञ्जरवासः॥ 184 ॥

कीर नीरसकरीरपादपे किं स्थितोऽसि कथयामि धीरतः।
मामकीनसहकारपादपा दुःसमीरलहरीभिराहताः॥ 185 ॥
सुभाषितस्याध्ययनेऽनुषक्तं शुकं वराकाः प्रहसन्ति काकाः।
तमेव सम्सत्सु गिरं किरन्तं दृष्ट्वा भवन्ति त्रपयानतास्याः॥ 186 ॥
द्राक्षां प्रदेहि मधु वा वदने निधेहि देहे विधेहि किमु वा करलालनानि।
जातिस्वभावचपलः पुनरेष कीरस्तत्रैव यास्यति कृशोदरि मुक्तबन्धः॥ 187 ॥
हे कीर कैरवसुगीरिति सङ्कलय्य मा मात्र संरससि सज्जनरञ्जनाय।
बालोऽपि यत्र कलकण्ठसुकण्ठपीठः संलेढि कोमलकुहूकृतपूर्णकर्णः॥ 188 ॥
इदमपटु कपाटं जर्जरः पञ्जरोऽयं विरमति न गृहेऽस्मिन्क्रूरमार्जारयात्रा।
शुक मुकुलितजिह्वः स्थीयतां किं वचोभिस्तव वचनविनोदे नादरः पामराणाम्॥ 189 ॥
अमृतवचनलीलाविभ्रमैरन्नपानं रचय चतुर कीर भ्रान्तचित्तेषु तेषु।
अकलितपरसेवातापपापः पिकोऽसौ भजतु विपिनवाटीमेष पीयूषकण्ठः॥ 190 ॥
अमुष्मिन्नुद्याने विहगखल एष प्रतिकलं विलोलः 4काकोलः क्वणति खलु यावत्कटुतरम्।
सखे तावत्कीर द्रढय हृदि 5वाचं यमकलां न मौनेन न्यूनो भवति गुणभाजां गुणगणः॥ 191 ॥

इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः समन्तादाक्रान्ता विषविषमबाणप्रणयिभिः।
तरोरस्य स्कन्धे गमय समयं कीर निभृतं न वाणी कल्याणी तदिह मुखमुद्रैव शरणम्॥ 192 ॥
अमुष्मिन्नारामे तरुभिरभिरामे विटपिनः स्फुटं नृत्यद्भृङ्गीविविधनवसङ्गीतकलनात्।
परानन्दैः पूर्णाः क इव तव वर्णावलिपदक्रमश्रोता वेत्ता द्विजवर शुक श्राम्यसि कुतः॥ 193 ॥
अये कीरश्रेणीपरिवृढ वृथा वासरशतं किमर्थं स्वं व्यर्थं क्षपयसि पलाशे रभसतः।
यदा पुष्पारम्भे मुखमलिनिमा किंशुकतरोस्तदैवेदं ज्ञातं फलपरिचयो दुर्लभतरः॥ 194 ॥
अपारः पाथोधिः पुलिनपदवी योजनशतं निरालम्बो मार्गो वियति किल शून्या दश दिशः।
इतीवायं कीरः कतिपयपदान्येव गगने मुहुर्भ्राम्यन्भ्राम्यन्पतति 1गुणवृक्षे पुनरपि॥ 195 ॥

द्विजकुलपते मेधासिन्धो सुभाषितकोविद त्वयि गृहमुपायते जातं बहूपकृतं मम।
यदिह नियतं बाला वृद्धाः स्त्रियः परिचारिकाः शुक भगवतो नाम प्रीता गृणन्ति मुहुर्मुहुः॥ 196 ॥
वासः काञ्चनपञ्जरे नृपकराम्भोजैस्तनूमार्जनं भक्ष्यं स्वादुरसालदाडिमफलं पेयं सुधाभं पयः।
पाठः संसदि रामनाम सततं धीरस्य कीरस्य मे हा हा हन्त तथापि जन्मविटपिक्रोडं मनो धावति॥ 197 ॥
सत्साङ्गत्यमवाप्य यः पुरवने नानारसास्वादवत्कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने।
दैवेनास्फुटवाक्प्रपञ्चपिहितश्रोत्रस्य तस्याटवीं प्राप्तस्यात्मसभाप्रगल्भकपिषु स्यान्मौनमेवोचितम्॥ 198 ॥
भ्रातः कीर कठोरचञ्चुकषणक्रोधायितैः कूजितैः किं माधुर्यनिषिक्तसूक्तिविशदः कण्ठावटुः शोष्यते।
सेयं दैववशाद्दशा परिणता राजन्यपात्रस्य ते भिल्लैश्छिद्रितभित्तिमुद्रितघटः प्राप्तो यतः पञ्जरः॥ 199 ॥
माणिक्यद्रवलिप्रमौक्तिकतुलां बिभ्रन्ति नो दाडिमीबीजान्येष निरीक्षते न रमते हैमेप्यहो पञ्जरे।
तत्तादृग्वनवाससम्मदमहामोदैकमेदस्विनी वृत्तिर्मे गलितानया हतगिरित्येवं शुकः शोचति॥ 200 ॥
याते यातमधःस्थिते स्थितमुपर्यालोकिते लोकितं यद्युद्यानशुकोऽप्यमाकलयते 2शुद्धान्तहस्तस्थितः।
तत्सर्वं मणिभित्तिमेत्य भवता छायाशुकाङ्गीकृतं तस्मिन्कर्णसुधां वितन्वति गिरं तूष्णीं किमु स्थीयते॥ 201 ॥
स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने चञ्चूकोटिविघट्टिताररपुटो यास्याम्यहं पञ्जरात्।
इत्थं कीरवरे मनोरथमयं पीयूषमास्वादयत्यन्तः सम्प्रविवेश वारणकराकारः फणिग्रामणीः॥ 202 ॥
दृष्ट्वा शाखावकीर्णं फलभरनमितं भूमिभागावनद्धं त्यक्त्वा शालप्रकाण्डं पनसमुपगतश्चिन्तयित्वेति कीरः।
हत्वा चञ्चुं प्रहर्षाद्विगलितपयसा संभृताशेषपक्षो भिन्नश्चोड्डीय गन्तुं गगनपरिचिता या गतिः सापि नष्टा॥ 203 ॥


  1. पलाशवृक्षे. ↩︎ ↩︎

  2. दोषः. ↩︎ ↩︎

  3. मरणपर्यन्तम्. ↩︎

  4. द्रोणकाकः. ↩︎

  5. वाचंयमो मौनी. ↩︎